Sri Gananayaka Ashtakam Hindi – श्री गणनायकाष्टकम्
गणानायकाष्टकं
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ 1 ॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ 2 ॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ 3 ॥
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ 3 ॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ 4 ॥
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ 4 ॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ 5 ॥
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ 5 ॥
मूषिकॊत्तममारुह्य देवासुरमहाहवे ।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ 6 ॥
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ 6 ॥
यक्षकिन्नरगन्धर्वक्ष् सिद्धविद्याधरैस्सदा ।
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ 7 ॥
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ 7 ॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ 8 ॥
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ 8 ॥
गणाष्टकमिदं पुण्यं यः पठे सततं नरः ।
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ 9 ॥
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ 9 ॥
इति श्री गणानायकाष्टकं सम्पूर्णम् ।
Comments
Post a Comment