Aditya Hridayam in Hindi – आदित्य ह्रदयं
Aditya Hridaya stotra is a hymn addressed to the Sun God, Lord Surya Deva or Aditya. Lord Surya deva is also called Aditya, which literally means “Son of Aditi”. Aditya Hrudayam Stotram is about Lord Surya being the Primal force in the Universe. It is about Lord Surya or Aditya being the primal force in the entire universe, and it is also a lesson on how to defeat an enemy by worshipping Surya deva. When Lord Rama got tired in the battle, Sage Agastya came to the battlefield and preached Aditya Hrudayam to Lord Rama. After this teaching, Lord Rama kills Ravanasura. Aditya Hrudayam is found in the Yuddha kanda in Valmiki Ramayana. Get Aditya Hridaya Stotra in hindi here, understand its meaning, and chant its lyrics with utmost devotion and faith
आदित्य हृदय स्तोत्रम सूर्य भगवान को समर्पित है। जब भगवान राम युद्ध में थक गए, तो ऋषि अगस्त्य युद्ध के मैदान में आए और आदित्य हृदयम नामक इस मंत्र का प्रचार किया। इस उपदेश के बाद, भगवान राम ने रावणासुर का वध किया। वाल्मीकि रामायण में युद्ध के दौरान ये आदित्य हृदय श्लोक 107 सर्गों में आते हैं।
आदित्य ह्रदयं
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ 1 ॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ 2 ॥
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ 3 ॥
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ 3 ॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥ 4 ॥
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ॥ 4 ॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमन-मायुर्वर्धनमुत्तमम् ॥ 5 ॥
चिन्ताशोकप्रशमन-मायुर्वर्धनमुत्तमम् ॥ 5 ॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ 6 ॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान् लोकान्पाति गभस्तिभिः ॥ 7 ॥
एष देवासुरगणान् लोकान्पाति गभस्तिभिः ॥ 7 ॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ 8 ॥
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ 8 ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ 9 ॥
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ 9 ॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ 10 ॥
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ 10 ॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ 11 ॥
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ 11 ॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ 12 ॥
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिरपां-मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ 13 ॥
घनवृष्टिरपां-मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ 13 ॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ 14 ॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ 15 ॥
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ 15 ॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ 16 ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17 ॥
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ 18 ॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19 ॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ 20 ॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥ 21 ॥
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥ 21 ॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22 ॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ 23 ॥
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ 23 ॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24 ॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ 25 ॥
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ 25 ॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ 26 ॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ 27 ॥
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ 27 ॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ 28 ॥
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ 28 ॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ 29 ॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ 30 ॥
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ 31 ॥
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ 31 ॥
इति आदित्य हृदयम् सम्पूर्ण॥
Comments
Post a Comment