Hanuman (Anjaneya) Ashtottara Sata Naama Stotram Hindi – हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्


हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्

आंजनेयो महावीरो हनुमान्मारुतात्मजः ।
तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥

अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः ।
सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥

परविद्यापरीहारः परशौर्यविनाशनः ।
परमंत्रनिराकर्ता परयंत्रप्रभेदकः ॥ 3 ॥

सर्वग्रहविनाशी च भीमसेनसहायकृत् ।
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥

पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् ।
सर्वतंत्रस्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।
बलसिद्धिकरः सर्वविद्यासंपत्प्रदायकः ॥ 6 ॥

कपिसेनानायकश्च भविष्यच्चतुराननः ।
कुमारब्रह्मचारी च रत्नकुंडलदीप्तिमान् ॥ 7 ॥

संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलः ।
गंधर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ 8 ॥

कारागृहविमोक्ता च शृंखलाबंधमोचकः ।
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥

वानरः केसरिसुतः सीताशोकनिवारकः ।
अंजनागर्भसंभूतो बालार्कसदृशाननः ॥ 10 ॥

विभीषणप्रियकरो दशग्रीवकुलांतकः ।
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥

चिरंजीवी रामभक्तो दैत्यकार्यविघातकः ।
अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ॥ 12 ॥

लंकिणीभंजनः श्रीमान् सिंहिकाप्राणभंजनः ।
गंधमादनशैलस्थो लंकापुरविदाहकः ॥ 13 ॥

सुग्रीवसचिवो धीरः शूरो दैत्यकुलांतकः ।
सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ 14 ॥

कामरूपी पिंगलाक्षो वार्धिमैनाकपूजितः ।
कबलीकृतमार्तांडमंडलो विजितेंदिर्यः ॥ 15 ॥

रामसुग्रीवसंधाता महिरावणमर्दनः ।
स्फटिकाभो वागधीशो नवव्याकृतिपंडितः ॥ 16 ॥

चतुर्बाहुर्दीनबंधुर्महात्मा भक्तवत्सलः ।
संजीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ 17 ॥

कालनेमिप्रमथनो हरिमर्कटमर्कटः ।
दांतः शांतः प्रसन्नात्मा शतकंठमदापहृत् ॥ 18 ॥

योगी रामकथालोलः सीतान्वेषणपंडितः ।
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ 19 ॥

इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः ।
पार्थध्वजाग्रसंवासी शरपंजरभेदकः ॥ 20 ॥

दशबाहुर्लोर्कपूज्यो जांबवत्प्रीतिवर्धनः ।
सीतासमेतश्रीरामपादसेवाधुरंधरः ॥ 21 ॥

इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ।
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ 22 ॥

Comments